SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३२८॥ १२ वित्यपृच्छत्तां, स्वच्छः स्वच्छन्दचारिणीम् ॥३२॥ तत उत्पन्नधीः प्रोचे, कुलटा कुटिलाशया ॥ अस्नातो मा त्वमश्नीया, इत्युक्तं प्राग्मया हि ते ॥ ३३॥ अस्मदावसथेऽजस्त्र सेवया वासितौ मया ॥ इमावुमाहरौ नष्टा वस्मादस्नानभोजनात् ! ॥३४॥ तदाकर्ण्य मया दुष्ठु कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा - वित्यूचे तां गृहाधिपः ॥ ३५ ॥ गच्छत्यसौ विदेशे चे द्रमे स्वैरमहं तदा ॥ ध्यायन्तीति ततोऽवोचत्स्वैरिणी पतिवैरिणी ॥३६॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः ॥ चेदर्च्चयसि चण्डीशौ, प्रत्यायातस्तदा हि तौ ॥३७॥ तत्प्रपद्य दशार्णेषु, महत्तरसुतो ययौ ॥ छेकोऽपि वच्यते धर्म-छद्मना किं पुनः परः ? ॥ ३८ ॥ क्षेत्रे कस्यापि तत्रासौ कुर्वन्कार्यमुपार्जयत् ॥ दश गद्याणकान्स्वर्णं, तच्चाल्पमिति - नाऽतुषत् ॥३९॥ तथापि स प्रति गृहं, निवृत्तः स्वप्रियां स्मरन् ॥ मध्याहने क्वापि कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहृतो वक्र- शिक्षिताश्वेन पर्यटन् ॥ दशार्णभद्र भूपाल-स्तत्रागच्छत्तृषातुरः ॥ ४१ ॥ आतिथ्याहों महात्माय - मित्यन्तश्चिन्तयंस्ततः । महत्तराङ्गजस्तस्मै पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्वाणं हयं व्यधात् ॥ क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥४३॥ स्ववृत्तान्तेऽथ तेनोक्ते, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥४४॥ परं धार्मिकतामस्य, वीक्ष्य चित्रीयते मनः ॥ चिकीर्षति स्वदेवार्चा - मसद्वित्तमुपार्ज्य यः ॥४५ ॥ विदोऽपि सदपि द्रव्यं व्ययन्ते व्यसनादिभिः १ अविद्यमानम् ॥ UTR-2 अष्टादशमध्ययनम् दशार्णभद्रचरित्रम् ३२-४५ ॥३२८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy