________________
उत्तराध्ययनसूत्रम् ॥३२७॥
अष्टादशमध्ययनम्
(१८) दशार्णभद्र
चरित्रम् १८-३९
द्घाटिते द्वारे, स रजस्कोऽन्तराऽऽगतः॥ किमिदं पायसापूर्णं, स्थालमस्तीत्युवाच ताम् ॥१८॥ क्षुधितास्मीति भोक्ष्येऽह-मित्युक्ते मायया तया ॥ सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ॥१९॥ इत्युदित्वा बलाद्यावज्जारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ॥२०॥ व यामीति ततः पृष्टा, जारेण कुलटाऽब्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ॥२१॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः ॥ त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥२२॥ ओमित्युक्त्वा ततः सोऽपि, तत्रापवरकेऽविशत् ॥ भूयस्तमिस्रमिश्रत्वा-त्तमिस्राभे दिवाऽपि हि ॥२३॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी ॥ विवेश वेश्मनि ततो, गृहेश: सरलाशयः ॥२४॥ क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच्च ताम् ॥ उवाच पुंश्चली भुक्ति, कुर्वेऽहमशनायिता ॥२५॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोचेऽद्याष्टमी तस्मा - दस्नातो भोक्ष्यसे कथम् ॥२६॥ सोऽशंसत्स्नात एवाह, स्नातायां त्वयि वल्लभे ॥ साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ॥२७॥ वयं हि शैवास्तेषां च, न प्सानं स्नानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं, बलाद्भोक्तुं प्रचक्रमे ॥२८॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ॥ नटः कराभ्यां संघृष्य, फूच्चकार तिलान्मुहुः ॥२९॥ सन्यासिकस्ततोऽध्यासी-दसौ फूत्कुरुते फणी ॥ तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥३०॥ इति ध्यात्वाऽपवरका-निर्गत्य द्राग् ननाश सः ॥ समयोऽयमिति ध्यायं-स्ततोऽनेशन्नटोऽपि सः ॥३१॥ महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियौ ॥ कावेता
UTR-2
॥३२७॥