SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य. १२ यनसूत्रम् ॥११४॥ न्तरविधायिना ॥६१ ॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् ।। यक्षो विडम्बयामास, तां कनीमखिलां निशाम् ॥६२ ॥ प्रभाते च मुनिन त्वामिच्छतीत्यामरं वचः। श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा ॥ ६३ ॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः ॥ ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ।। ६४ ।। स्वामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति साम्प्रतम् ॥ द्विजानां कल्पते देवार्चकानामिव तद्वलिः ॥ ६५ ॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोऽपि तां कनीम् ॥ तस्मायेव ददौ गौरी- मिवेशाय हिमाचलः ॥६६ ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ॥ क्षुद्रो ह्यसारमप्याप्य, वस्तु श्वेवास्थि मोदते ॥ ६७ ॥ अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः । स च यज्ञवधूं विधाय तां, नृपपुत्री मखमन्यदा व्यधात् ॥६८ ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुस्त्रियते । तच्चेदम्मूलम्--सोवागकुलसंभूओ, गुणुत्तरधरो मुणी। हरिएसबलो नामं, आसि भिक्ख जिइंदिओ ॥१॥ व्याख्या-श्वपाककुलं-चाण्डालवंशस्तत्र सम्भूतः-उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान्-प्रकृष्टान् गुणान्-ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात्, मुनिः साधुः, श्वपाककुलोत्पन्नोऽपि कश्चित्सवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह-हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो बलो नाम बलाभिधः, आसीभिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥१॥स कीदृशः किञ्च चकारेत्याहमूलम्-इरिएसणभासाए उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥ २ ॥ UTR-2 ॥११४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy