________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११३॥
मुण्डमौलित्वं, सुकरं वेषधारणम् ॥ बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ॥ ४५ ॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, ह्यनुभूते भवेभृशम् ॥ ४६ ॥ अहो ! धर्मस्य माहात्म्यं, यदाराध्योऽपि भूस्पृशाम् ॥ यक्षः सिषेवे तं साधुमपि श्वपचवंशजम् ! ॥ ४७ ॥ राज्ञः कौशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा ॥ ययौ पूजयितुं यक्षं, तच्चैत्ये सपरिच्छदा ॥ ४८ ॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत । मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्कभूधनम् ॥ ४९ ॥ अहो! निन्द्यस्वरूपोऽसौ, सर्वथापीति सा ततः ॥ थूच्चकार विमूढा हि, तत्त्वं पश्यन्ति नान्तरम् ॥ ५० ॥ ततो रुष्टेन यक्षेण, सा कनी विवशीकृता ॥ असमञ्जसमाख्यातुमारेभे दुष्टचेष्टिता ॥ ५१ ॥ सा विषण्णेन तन्त्रेण, निन्ये नृपनिकेतनम् ॥ नृपोऽपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ॥ ५२ ॥ राज्ञाथ कारिता वैद्य-मान्त्रिकादिप्रतिक्रियाः ॥ मोघास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ॥ ५३ ॥ किङ्कर्तव्यविमूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोऽध्यक्षमदोऽवदत् ।। ५४ ॥ निन्दा निदानं दुःखानां, यन्मुनेनिर्मितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुञ्चामि नान्यथा ॥ ५५ ॥ जीवत्वसाविति क्षमापः, प्रत्यपद्यत तद्वचः ॥ ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ॥५६॥ साथ राज्ञाभ्यनुज्ञाता, सतन्त्रागात्सुरालयम् ॥ महत्तरीभिश्चादिष्टा, निश्यगान्मुनिसन्निधौ ॥ ५७ ॥ तञ्च साधुं प्रणम्योचे, स्वामिन् ! पाणिं गृहाण मे ॥ स्माह व्रती कृतं भद्रे! वार्त्तयाप्यनया मया! ॥ ५८॥ न ये स्त्रीभिः सहेच्छन्ति, वासमप्येकसद्मनि ॥ कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणा: कथम् ? ॥ ५९॥ नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः ॥ ग्रैवेयकादिसुरव-द्रज्यन्ते नो महर्षयः! ॥ ६० ॥ श्रुत्वेति वलमाना सा, व्यूढा यक्षेण सक्रुधा ॥ आच्छाद्य शमिनो रूपं, रूपा
UTR-2
॥११३॥