________________
उत्तराध्ययनसूत्रम् ॥३०९॥
अष्टादशमध्ययनम् (१८) कुंथुनाथचरित्रम् ४-१८
सूराह्वः, श्रीसंज्ञा तस्य च प्रिया ॥४॥ सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ कुक्षौ चतुर्दशस्वप्ना-ऽऽवेदितोऽवातरत् श्रियः ॥५॥ क्रमाच्च साऽसूत सुतं, छागाङ्कं काञ्चनच्छविम् ॥ दिक्कुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽऽगताः ॥६॥ जन्माभिषेकं मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः ॥ तुष्टोऽन्वतिष्ठद्भूपोऽपि, पुत्रजन्ममहामहः ॥७॥ गर्भस्थेऽस्मि कुंथुभावं, भेजिरे निखिला द्विषः ॥ स्वप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥८॥ तत्कुंथुरिति तस्याख्या-मुत्सवैर्निर्ममे नृपः ॥ विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः ॥९॥ यौवने राजकन्या राट्, समं तेनोदवाहयत् ॥ तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यव्रजस्वयम् ॥१०॥ श्रीकुंथुस्वामिनः प्राज्यं, राज्यं पालयतस्ततः ॥ चक्रमायुधशालाया-मन्येधुरु दपद्यत ॥११॥ ततश्चक्रानुगः सर्वं, विजिग्ये भरतं प्रभुः ॥ चक्रिश्रियं च स्त्रीरत्न-मिवोपबुभुजे चिरम् ॥१२॥ अथ लौकान्तिकैर्देवैः, स्वयम्बुद्धः स बोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥ १३ ॥ ततो नरेन्द्रैरिन्द्रैश्च, कृतनिष्क्रमणोत्सवः ॥ आरुह्य शिबिकां स्वामी, सहस्राम्रवणं गतः ॥ १४॥ महीपतिसहस्रेण, सह व्रतमुपाददे ॥ मनःपर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसदत् ॥१५॥ [ युग्मम्] विभुर्भारु ण्डपक्षीवा-ऽप्रमत्तो विहरन् भुवि।। आगात् षोडशभिर्वर्षेः, सहस्रामवणं पुनः ॥१६॥ तत्र च स्वामिनाऽवाप्ते, केवले हरयोऽखिलाः ॥ आगत्य चक्रुः समव-सरणं शरणं श्रियाम् ॥ १७ ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत्गुणाढ्यया ॥ गिरा दिदेश तत्रेशो, धर्म सिंहासने स्थितः ॥ १८ ॥ तं निशम्य प्रभोः पार्श्वे, प्राव्रजन् बहवो जनाः॥ तेषु चास्थापयत्पञ्च-त्रिंशतं
UTR-2
॥३०९॥