________________
उत्तराध्य
यनसूत्रम् ।। १०२ ।।
अत एव 'पिअंवाइत्ति' केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियंवादी । आह च - " करयलमलिअस्सवि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सज्जणमाणुसस्स महुरा समुल्लावा ॥ १ ॥ तथा चास्य को गुणः ? इत्याहस एवंविधगुणवान् शिक्षां शास्त्रार्थग्रहणतदासेवनादिरूपां लब्धुमवाप्तुमर्हति योग्यो भवति न तु तद्विपरीतोऽविनीतः । यश्च शिक्षां लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाह
मूलम्-जहा संखंमि पयं निहित्तं, दुहओवि विराय । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ॥ १५॥
व्याख्या- यथेति दृष्टान्ते, शंखे पयो दुग्धं निहितं न्यस्तं 'दुहओवित्ति' स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थ:, 'विराजते' शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एवमनेन प्रकारेण बहुश्रुते 'भिक्खू त्ति' भिक्षौ मुनौ धर्मो मुनिधर्मः कीर्त्तिः श्लाघा, तथा श्रुतमागमो विराजते इति सम्बन्धः । अयं भावः यद्यपि धर्मकीर्त्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति तथापि मिथ्यात्वादिकालुष्यापगमान्नैर्मल्यादिगुणैः शंखसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ॥ १५ ॥ पुनर्बहुश्रुतस्तवमेवाह
मूलम् - जहा से कंबोआणं, आइण्णे कंथए सिआ । आसे जवेण पवरे, एवं भवइ बहुस्सुए ॥ १६ ॥
व्याख्या- यथा स इति प्रसिद्धः, काम्बोजानां काम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्वो यः किल दृषच्छकलभृतकुतपनिपातध्वनेर्न सन्त्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्यु
UTR-2
अध्य. ११
॥१०२॥