SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अध्य. ११ उत्तराध्ययनसूत्रम् ॥१०१॥ व्याख्या-न च पापपरिक्षेपी, पूर्वोक्तरूप: ९ । न च कथञ्चित्सापराधेभ्योऽपि मित्रेभ्यः कुप्यति १० । अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति य प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि | तत्कृतमुपकारमनुस्मरन् न रहस्यपि तद्दोषं वक्ति । आह च-"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः, न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः ॥१॥ इति ॥ ११ ॥ १२ ॥ मूलम्--कलहडमरवज्जए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति वुच्चई ॥ १३ ॥ व्याख्या--कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिजं तद्वर्जकः कलहडमरवर्जकः१२ । बुद्धो बुद्धिमानेतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनिवहणादित्यभिजातिग: १३ । हीमान् लज्जावान्, स हि कलुषाशयत्वेऽप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरु पार्श्वेन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणा- न्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥ १३ ॥ यश्चैवं विनीतः स कीदृक् स्यादित्याह-- | मूलम्--वसे गुरुकुले णिच्चं, जोगवं उवहाणवं । पिअंकरे पिअंवाई, से सिक्खं लद्भुमरिहई ॥ १४ ॥ व्याख्या - वसेत्तिष्ठेद्गुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणञ्चैतत्ततो यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगो व्यापारो धर्मस्य तद्वान्, उपधानमङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, प्रियङ्करः कथञ्चित्केनचिदपकृतोऽपि | न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । UTR-2 ॥१०१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy