SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ अध्य. ११ उत्तराध्ययनसूत्रम् ॥१०३ ॥ पनये, तत ईदृशो भवति बहुश्रुतः, जैना हि मुनयः परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थकाश्ववत्तेभ्योऽप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥ मूलम्-- जहाइण्णसमारूढे, सूरे दढपरक्कमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सुए ॥ १७ ॥ व्याख्या--यथा आकीर्णं जात्यादिगुणोपेतमश्वं समारूढोऽध्यासितः आकीर्णसमारूढः शूरचारभटो दृढपराक्रमो गाढबल: 'उभओ त्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति बहुश्रुतः । अयं भावःयथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्वमाश्रितो दृप्तपरवादिदर्शनेऽपि चात्रस्तस्तज्जयम्प्रति समर्थ उभयतश्च दिनरात्र्योः स्वाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो दृप्तैरपि परैर्न पराभूयते, न च तदाश्रितोऽन्योऽपिति सूत्रार्थः॥१७॥ मूलम्--जहा करेणुपरिकिण्णे, कुंजरे सट्ठिहायणे । बलवंते अप्पडिहए, एवं भवति बहुस्सुए ॥ १८ ॥ व्याख्या--यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृत्तः कुञ्जरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाण: तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंते ति' बलं वपुःसामर्थ्यमस्यास्तीति बलवान्, अप्रतिहतो न मदोत्कटैरपि परगजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः षष्टिहायनतया स्थिरमतिरत एव च बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥ मूलम्--जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहाहिवई, एवं भवइ बहुस्सुए ॥ १९ ॥ UTR-2 ॥१०३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy