________________
उत्तराध्य
अध्य. ११
यनसूत्रम्
॥१०४॥
व्याख्या-- यथा स तीक्ष्णशृङ्गो निशितविषाण: जातोऽत्यन्तमुपचितः स्कन्धोऽस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत्, विराजते वृषभो यूथाधिपतिर्गोसमूहस्वामी सन्, एवं भवति बहुश्रुतः । सोऽपि परपक्षक्षोदकतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ मूलम्--जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥ २०॥
व्याख्या--यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुप्पहंसए त्ति' दुष्प्रधर्षकोऽन्यैः पराभवितुमशक्यः सिंह: केसरी मृगाणामारण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यैर्नंगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ २० ॥ मूलम्-- जहा से वासुदेवे संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥
व्याख्या-यथा स वासुदेवः, शंखं पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकी, धरतीति शङ्खचक्रगदाधरः । अप्रतिहतबल: अस्खलितसामर्थ्यः, अयं भाव:-एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोऽपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरञ्च शंखचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ॥२१॥ मूलम्-- जहा से चाउरते, चक्कवट्टी महिड्ढिए । चउदसरयणाहिवई, एवं भवइ बहुस्सुए ॥ २२ ॥
UTR-2
॥१०४॥