________________
उत्तराध्ययनसूत्रम् ॥३४०॥
अष्टादशमध्ययनम् उदायनराजर्षिकथा ८२-९५
तीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्तवैः ॥४२॥ जज्ञे प्रभावना जैन-शासनस्य ततो भृशम् ॥ आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ॥८३॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहैः ॥८४॥ त्रिसन्ध्यं पूजयामास, विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां, नृपो वीणामवादयत् ॥४५॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा ॥ ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥८६॥ किं मया दुष्ठ नृत्तं ? य-द्वीणावादनमत्यजः ॥ सकोपमिति राज्याऽथ, पृष्टो मौनं दधौ नृपः ॥८७॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्त्वा, महादेवीत्युवाच सा ॥८॥ सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः ! तन्निमित्तादितोऽल्पायुः-सूचकात्किमु खिद्यसे ? ॥८९॥ तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा ॥ आनिन्ये तानि रक्तानि, काचिच्चेटी ससम्भ्रमा ॥१०॥ जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना॥ ददासि दासि । वासांसि, किं रक्तानीति वादिनी ॥११॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ॥१२॥ [ युग्मम् ] सानुतापा ततो राज्ञी,
दध्यौ धिक् किं कृतं मया ॥ खंडितं हि व्रतं घाता-दस्या दास्या निरागसः ! ॥१३॥ विधायानशनं तस्मासे देनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् ? ॥१४॥ विमृश्येति स्वमाकूतं, राज्ञी राज्ञे |
व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं, नेदं त्वद्वशजीवितः ॥१५॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥
UTR-2
॥३४०॥