SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३४१।।३ अष्टादशमध्ययनम् (९८) उदायनराजर्षिकथा ९६-१०८ जानासि त्वं तदपि किं, स्वामिन् ! स्वार्थं निहंसि मे ? ॥१६॥ राजा जगाद देवत्वं, प्राप्ता त्वं धर्ममार्हतम् ॥ चेद्बोधयसि सम्यग्मा-मनुमन्ये तदा ह्यदः ! ॥९७॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ ॥ आराद्धश्राद्ध* धर्माणां, फलं प्रासङ्गिकं ह्यदः ! ॥९८॥ कुब्जा दासी देवदत्ता, तां जिनाक़ ततोऽभजत् ॥ स्वप्नादिना नदेवं तं, देवीदेवोऽप्यबूबुधत् ॥१९॥ जहौ तापसभक्तत्वं, न तथाऽपि स पार्थिवः ॥ दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥१००॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्येधुरमृत-फलानि सफलोद्यमः ॥१०१॥ सन्तीदृशानि भगवन् !, फलानि क्वेति भूपतिः? ॥ जातानन्दस्तदास्वादा-तं पप्रच्छ तपोधनम् ॥१०२॥ सोऽवादीनगरान्नाति-दूरस्थेऽस्माकमाश्रमे ॥ दुर्लभानि विशां सन्ति, फलानीमानि भूविभो! ॥१०३॥ ततोऽमूनि मनोहत्या-ऽऽस्वादयामीति चिन्तयन् ॥ विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥१०४॥ तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना .मुधा क्रुधा ॥१०५॥ ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावद्भ्यस्तेभ्यो नश्यन् भयाकुलः ॥१०६॥ स नृपः शरणीचक्रे, वीक्ष्य क्वापि वने मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः, पूज्या! मामित्युदीरयन् ॥१०७॥ [ युग्मम् ] मा भैषीरथ भूप! त्व-मित्यूचुमुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ॥१०८॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥ UTR-2 ॥३४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy