________________
अष्टादशम
उत्तराध्ययनसूत्रम्
ध्ययनम्
॥२४१॥
(१८) गा. २४
आत्मनो अव्यापित्वे तद्गुणयोर्धर्माधर्मयोरपि अव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनामिहागमनं न स्यादिति, भिन्नदेशस्थस्याप्ययस्कान्तादेर्लोहाद्याकर्षणशक्तिदर्शनाच्छरीरव्यापिनोरपि धर्माऽधर्मयोर्दूरस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्राद्यधिष्ठानो यैरिष्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं दृश्यते, एवं कर्तृत्वाद्येकान्तवादोऽपि स्वधियाऽपासनीयः। अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्त्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिषकुक्कुरछगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतत्, लोकसमयवेदेषु गुणाधिकस्यैवविनयार्हतया प्रतीतत्वात्, तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनच ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात्, ज्ञानं विना च भूयोऽपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्स्वाभिप्रायेणैवोच्यते इत्याह -
मूलम् - इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥ व्याख्या - इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्त्वो,
UTR-2
॥२४॥