SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२४२॥ ३ अष्टादशम ध्ययनम् गा. २५-२६ ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः, इति सूत्रार्थः ॥ २४ ॥ तेषां फलमाह - | मूलम् - पडंति नरए घोरे, जे नरा पावकारिणो । दिव्वं च गई गच्छंति, चरित्ता धम्ममारिअं ॥२५॥ व्याख्या - पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं | शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनी सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य | धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याह - मूलम् - मायाबुइअमेअंतु, मुसाभासा निरस्थिआ । संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥ व्याख्या - मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तम् एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरथिका सम्यगभिधेयशून्या, तत: 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं वसामि तिष्ठामि UTR-2 ॥२४२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy