SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२८२ ॥ खेचरी ॥ तयोश्चैको मंत्रितेना ऽसिञ्चन्नीरेण तां चिताम् ॥ १२६ ॥ ततः प्रतारणी कृत्वाट्टहासान् द्राक् पलायत ॥ तद्वीक्ष्य दध्यौ राट् केयं, क मे कान्ता क्व चाऽनलः ! ॥१२७॥ ध्यायन्निति नृपोऽप्राक्षी - त्किमेतदिति तौ नरौ ॥ ततो राजानमानम्य, तावप्येवमवोचताम् ॥ १२८ ॥ आवां हि पत्ती अमित - तेजसो नन्तुमर्हतः ॥ निर्यातौ द्रागिहायातौ वाणीमशृणुवेदृशीम् ॥ १२९॥ हा सोदरामिततेजो ! हा श्रीविजय मत्प्रिय ! ॥ इमां सुतारामेतस्माद्विमोचयत खेचरात् ॥ १३० ॥ गिरं तामनुधावद्भ्यां दृष्टावाभ्यां तव प्रिया ॥ उपात्ताशनिघोषेण, सुताराऽस्मत्प्रभोः स्वसा ॥१३१॥ तां विमोचयितुं दुष्ट ! तिष्ठ तिष्ठेति वादिनौ ॥ योद्धुमुत्कौ समं तेन, सुताराऽऽवामदोऽवदत् ॥ १३२ ॥ युवां ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् ॥ प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ॥१३३॥ ततोऽत्र द्रुतमेताभ्या- मावाभ्यां मंत्रितैर्जलैः ॥ चिताग्निः शमितो दुष्टा नाशिता च प्रतारणी ॥ १३४॥ हृतां सुतारां ज्ञात्वाऽथ विषन्नं तं नरेश्वरम् ॥ गाढाग्रहेण वैताढ्यं निन्यतुस्तौ नभश्चरौ ॥१३५॥ तं चाभ्युदस्थात्सहसा ऽमिततेजाः ससम्भ्रमः ॥ प्रतिपत्तिं च कृत्वोच्चैः पप्रच्छागमकारणम् ॥ १३६ ॥ ततः श्रीविजयेनोक्तौ तौ विद्याधरकुञ्जरौ ॥ तस्मै सर्वं सुताराया, हरणोदन्तमूचतुः ॥१३७॥ क्रुद्धोऽथामिततेजास्तं, प्रोचे हृत्वा तव प्रियाम् ॥ मज्जामिं च कियन्नामाऽशनिघोषः स जीविता ॥१३८॥ उक्त्वेति शस्त्रावरणीं, बन्धनीं मोचनीं तथा ॥ विद्याममिततेजाः श्री विजयाय ददौ मुदा ॥३९॥ वृतं सैन्यान्वितैः स्वीय-सुतानां पञ्चभिः शतैः ॥ प्रैषीत् श्रीविजयं सद्यः, सुतारानयनाय सः ॥ १४० ॥ अष्टादशमध्ययनम् शान्तिना थचरित्रम् १२६-१४० _UTR-2 ॥२८२ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy