SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२८३॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् १४१-१५३ ततो विद्याधरानीकै-श्छादयन् द्यां घनैरिव ॥ पुर्यां चमरचंचायां, क्षिप्रं श्रीविजयो ययौ ॥१४१॥ स्वयं त्वशनिघोषं तं, भूरिविद्याविदं विदन् ॥ सहस्ररश्मिना साकं, स्वपुत्रेणार्ककीर्तिसूः ॥१४२॥ महाज्वालां महाविद्यां, परविद्याबलापहाम् ॥ महासत्त्वः साधयितुं जगाम हिमवगिरिम् ॥१४३॥ [युग्मम् ] सहसरश्मिना रक्ष्य-माणो | मासोपवासकृत् ॥ विद्या साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ॥१४४॥ इतश्चाशनिघोषाय, दूतं श्रीविजयो नृपः ॥ प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्भवाक् ॥१४५॥ प्रतारण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् ॥ हरन् सुतारां किं वीरं-मन्यस्त्वं न हि लज्जितः ॥१४६॥ यद्वा पौरुषहीनानां, छलमेव बलं भवेत् ! ॥ किन्तु ध्वान्तमिवार्के श्री-विजये तत्कथं स्फुरेत् ? ॥१४७॥ सुतारां देहि तत्तस्मै, तूर्णं प्रणतिपूर्वकम् ॥ त्वत्प्राणैः सह तां नेता, नेता श्रीविजयोऽन्यथा! ॥१४८॥ शशंसाशनिघोषोऽथ, साधु धृष्टोऽसि दूत रे ! ॥ यदि श्रीविजयोऽत्रागा-मन्दधीस्तर्हि तेन किम् ? ॥१४९॥ शौर्यांशोऽपि न मे तेन, वराकेण सहिष्यते ! ॥ भानुप्रकाशलेशोऽपि, सह्यते कौशिकेन किम् ॥१५०॥ यथाऽऽयातस्तथा यातु, तदसाविह तु स्थितः ॥ सुतारां लप्स्यते नैव, लप्स्यते तु विगोपनाम् ॥१५१॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽथ क्रुद्धो भृशं युद्ध-सज्जः सेनामसज्जयत् ॥१५२॥ विज्ञायाशनिघोषोऽपि, तस्य सैन्यं रणोद्यतम् ॥ सानीकानश्वघोपदीन, प्रजिघायाऽऽजयेऽङ्गजान् ॥१५३॥ पूर्णेऽथ रणतुर्याणां, निर्घोषैरभितोऽम्बरे ॥ तयोः प्रववृते UTR-2 ॥२८३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy