SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२८॥ १५ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ११२-१२५ ॥१११॥ तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणैः ॥ जामिं सुतारामभ्या -ऽमिततेजा ययौ गृहम् ॥११२॥ अथान्यदा श्रीविजयः, समं देव्या सुतारया ॥ ययौ क्रीडितुमुद्यानं, मुदा ज्योतिर्वनाभिधम् ॥११३॥ तदा च | कपिलजीवः, खेचरोऽशनिघोषराट् ॥ सुतारां प्राग्भववधूं, तत्राद्राक्षीदिवि व्रजन् ॥११४॥ तस्यां प्राग्भवसंस्कारात्सोऽनुरागं दधौ भृशम् ॥ तां जिहीर्घमंगं हैमं, तदने विद्यया व्यधात् ॥११५॥ सुतारा कान्तमित्यूचे, तं च वीक्ष्यातिमञ्जुलम् ॥ आनीय मृगमेनं मे, देहि क्रीडाकृते प्रभो ! ॥११६॥ ततो ग्रहीतुं तं धावन्, यावदूरमगान्नृपः ॥ तावदेकाकिनी देवीं, जहाराऽशनिघोषराट् ॥११७॥ नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी ॥ प्रोच्चकैः पुच्चकारेति, सुतारारूपधारिणी ॥११८॥ दष्टां कुक्कुटसर्पण, प्रिय ! त्रायस्व मां द्रुतम् ॥ तदाकर्ण्य नृपो याव-त्तत्रागाद्गाढमाकुलः ॥११९॥ तावत्तां पतितां पृथ्व्यां, विपन्नां वीक्ष्य पार्थिवः ॥ मूर्च्छितो न्यपतद्भूमा-वनुकुर्वन्निव प्रियाम् ॥१२०॥ सिक्तोऽथ चन्दनरसैः, प्राप्तसंज्ञो धराधिपः ॥ व्यलापीदिति हा कान्ते!, किं ते जातेदृशी दशा? हिरण्यहरिणेनाद्य, मूढोऽहं वञ्चितोऽस्मि हा ! मयासन्ने हि शेषाहि-रपि त्वां दंष्ट्रमप्रभुः ॥ १२२॥ त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! ॥ कदाऽपि किं जीवति हि, मीनः पानीयमन्तरा ? ॥१२३॥ तदुःखं त्वद्वियोगोत्थ-मसासहिरयं जनः ॥ अन्तयत्वनुगम्य त्वां, सत्वरं जीवितेश्वरि ! ॥१२४॥ इत्युदीर्य महीनाथः, समं दयितया तया ॥ विमोहमोहितोऽध्यास्त, नियुक्तै रचितां चिताम् ॥१२५॥ वह्नौ ज्वलितुमारब्धे, तत्रागातां च UTR-2 ॥२८१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy