SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२८० ॥ १२ * सप्ताहं वसतु स्वामी, तद्वैताढ्यगुहान्तरे! ॥९७॥ तृतीयो न्यगदन्नाय - मुपायः प्रतिभाति मे ॥ अवश्म्भावी भावो हि यत्रतत्रापि जायते ! ॥९८॥ तत्तपः क्रियतां सर्वैः, सर्वोपद्रववारकम् ॥ तपसा क्षीयते कर्म, निकाचितमपि द्रुतम् ॥९९॥ तुर्यः प्रोचे पोतनोर्वी-पतेरुपरि कथ्यते ॥ गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ॥ १०० ॥ क्रियतामपरः कोऽपि सप्ताहमिह तन्नृपः पतिष्यति तडित्तस्मिन् स्वामी स्थास्यति चाक्षतः ॥ १०१ ॥ प्रतिपेदे मुदा दैव-ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं भवतामिति वादिभिः ॥ १०२ ॥ ततोऽहमब्रवं त्रातुं, स्वप्राणानपरं नरम् ॥ न घातयिष्ये स्वप्राणाः सर्वेषामपि हि प्रिया ! ॥ १०३ ॥ ऊचिरे सचिवा: स्वामिन् ! विचारोऽसौ विमुच्यताम् ॥ श्रीवैश्रवणयक्ष्यस्य मूर्ती राज्येऽभिषिच्यताम् ॥ १०४ ॥ उपद्रवो दिव्यशक्त्या, न चेद् भावी तदा शुभम् ॥ भावी चेज्जीवहिंसायाः पापं नाथ ! न भावि ते ॥ १०५ ॥ इदं हि युक्तमित्युक्त्वा ततोऽहं जिनसद्मनि ॥ गत्वास्थां पौषधं कृत्वा, दर्भसंस्तारकं श्रितः ! ॥ १०६ ॥ राज्येऽभिषिक्तं यक्षं चा ऽभजन्मामिव नागराः ॥ सप्तमे चाह्नि मध्याह्ने, गर्जन्नुदनमद् घनः ॥ १०७ ॥ उद्दण्डोऽथ तडिद्दण्डः, प्रचण्डो वडवाग्निवत् ॥ यक्षमूर्ती सनिर्घातः, पपात जलदात्ततः ॥ १०८ ॥ तदा च तुष्टा दैवज्ञे, रत्नानि ववृषुः प्रजाः ॥ चैत्याच्च निर्गतं राज्येऽभ्यषिञ्चन्मां पुनर्मुदा ॥१०९॥ मयापि पद्मिनीषंडं दत्वा पत्तनमुत्तमम् ॥ व्यसर्जि गणको भूरि, तेन ह्युपकृतं मम ! ॥११०॥ मूर्ति च धनदस्याहं, दिव्यां नव्यामकारयम् ॥ महं कुर्वन्ति पौराश्च विघ्नो मे शान्त इत्यमुम् अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ९७-११९ UTR-2 ॥२८० ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy