________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥६८॥
शुनीमिव ॥ ११२ ॥ तच्च तच्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः ॥ इत्यूचिरेऽपरा राज्यो, जनेशं विजने स्थितम् ।। ११३ ॥ यद्यपि त्वं प्रभोऽस्मासु, नि:स्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विघ्नात् , स्त्रियो हि पतिदेवताः ॥ ११४ ॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् ॥ तया वशीकृतस्त्वं तु, न जानासि तदप्यहो ! ॥ ११५ ॥ अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः ॥ यदि प्रत्येषि न तदा, त्वं निरूपय केनचित् ।। ११६ ।। सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् ॥ कृत्वा कुवेषं मध्याह्न, किञ्चिन्मुणगुणायते ! ॥ ११७ ॥ तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं स्वयम् ॥ प्राग्वत्स्वनिन्दां कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ॥ ११८ ॥ ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व- महो मानापमाननम् ! ॥११९ ॥ मदोन्मत्ता भवन्त्यन्ये, स्वल्पायामपि सम्पदि । असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ॥१२० ॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ।। राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् ! ॥१२१ ॥ उक्तञ्च - " जाड्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निघृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे । तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः?" ॥ १२२ ॥ ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञी चकार ताम् ॥ गुणैर्महत्त्वमाप्नोति, जनो न तु कुलादिभिः ॥ १२३ ॥ नृपो विमलचन्द्राख्यः सूरिपार्श्वे स चान्यदा ॥ समं कनकमञ्जर्या, श्राद्धधर्ममुपाददे ! ॥ १२४ ॥ साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव व्रजन्ति हि ॥ १२५ ॥ वैताढ्ये तोरणपुरे, दृढशक्तिमहीपतेः॥ सुता कनकमालाख्या, जज्ञे स्वर्गाच्च्युता तु सा ॥१२६ ।। तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हृत्वानैषीदिह गिरौ, खेचरो वासवाभिधः ॥१२७॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ।। स व्यधाद्वेदिकामेना, यावदुद्वोढुमुद्यतः ॥ १२८ ॥ तावदत्रागतस्तस्या, अग्रजस्तां
UTR-2
॥६८॥