________________
उत्तराध्य
यनसूत्रम्
॥ ६७ ॥
बहुला राज्ञ्यो, राज्ञः कस्यापि कुत्रचित् ॥ तासु चैकाभवत्तस्य, स्वप्राणेभ्योपि वल्लभा ॥ ९५ ॥ राज्ञीनां शङ्कयान्यासां, कलादैर्भूगृहस्थितैः ॥ स च तस्याः कृते छन्न-मलङ्कारानकारयत् ॥ ९६ ॥ को हि कालोधुनास्तीति, कलादांस्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ॥ ९७ ॥ तत्र रात्रिः कथं ज्ञाते -त्युक्ता राज्ञी भुजिष्यया ॥ प्रोचे प्रमीलाभ्येतीति वक्ष्येन्येद्युरिदं तव ॥ ९८ ॥ षष्ठेप्यह्नि नृपप्राप्त - वारका साथ तां जगौ ॥ भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ॥ ९९ ॥ कथान्तरञ्च पृष्टैवं, साख्यत्कस्यापि भूपतेः ॥ पेटां भूषणसम्पूर्णां, निश्च्छिद्रां कोप्यढौकयत् ॥ १०० ॥ तस्यां चानुद्घाटिताया- मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थानलंकारा-न्दास्याख्यत्स्यादिदं कथम् ? ॥ १०१ ॥ राज्ञी स्माह तवेदं श्वो, वदिष्यामि शयेऽधुना ॥ प्राप्ता च वारकं प्राग्व-च्चेट्या पृष्टैवमभ्यधात् ॥ १०२ ॥ बभूव पेटिका सा हि स्वच्छस्फटिकनिर्मिता ॥ तत्तस्यां पिहितास्याया मपि भूषा ददर्श राट् ॥ १०३ ॥ आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् ॥ व्यमोहयत्ततः सोऽभू-तस्यामेव रतो भृशम् ॥ १०४ ॥ नृपाङ्गजा अप्यन्यास्तु, राज्ञीर्नाजल्पयन्नृपः॥ ततस्ताः कुपिता नित्यं तस्याच्छिद्राण्यमार्गयन् ॥ १०५ ॥ ऊचुश्चैवमयं भूपो ऽनया नूनं वशीकृतः ॥ कुलीना नस्त्यक्त्वा, यदस्यामेव रज्यते ॥ १०६ ॥ चित्रकृत्तनया सा तु सुधीर्मध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा, वस्त्रभूषा नृपार्पिताः ॥ १०७ ॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च ॥ एकाकिनी स्वमात्मानमेवमुच्चैरबोधयत् ॥ १०८ ॥ ( युग्मम् ) रे जीव ! मा मदं कार्षी-र्मा विधा ऋद्धिगौरवम् ॥ मा विस्मार्षीर्निजां पूर्वा-वस्थां प्राप्तोपि सम्पदम् ॥ १०९ ॥ अलङ्कारास्त्रपुमा जीर्णानि वनानि च ॥ निजानीमानी जानीहि सर्वमन्यत्तु भूपतेः ॥ ११० ॥ तद्दर्पमपहाय त्व-मात्मन् ! शान्तमना भव ॥ यथा सुचिरमेतासां, पदं भवसि सम्पदाम् ॥ १११ ॥ अन्यथा तु नरेन्द्रस्त्वां गृहीत्वा गलकन्दले ॥ निष्काशयिष्यति गृहात्, कुथिताङ्ग
UTR-2
अध्य. ९
॥६७॥