SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥६६॥ तन्मानभूधनः ॥ ७६ ॥ अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने क्वापि, रक्ताशोकद्रुमोऽभवत् ॥ ७७ ॥ शाखाशताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ? ॥ ७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ॥ ततस्तस्यै ददौ भूप - स्तृतीयेप्यनि वारकम् ॥ ७९ ॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभवच्छाया - ऽधस्तादूर्ध्वन्तु नाऽभवत् ।।८० ॥आख्यानमन्यदाख्याही- त्युक्ता मदनया पुनः ॥सावादीत् क्वाप्यभूद्ग्रामे, कोपि दासेरपालकः ॥ ८१ ॥ तस्य चैको महाकायो, वणोन्तर्वणं चरन् ॥ एकं बब्बूलमद्राक्षीत्, फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ॥ ८३ ॥ जातकोपस्ततस्तस्य, द्रुमस्योर्ध्वं क्रमेलकः ॥ विण्मूत्रे व्यसृजत्को वा कदर्येभ्यो न कुप्यति ? ॥ ८४ ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ॥ तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ॥ ८५ ॥ राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यनि ततो राजा, तस्यै वारकमार्पयत् ॥ ८६ ॥ ततो दास्या तया पृष्टा, प्रोचे कनकमंजरी ॥ बब्बूलः स हि कूपेभू - त्तत्तं प्सातुं स नाशकत् ।। ८७ ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् ॥ भूपेन क्वापि केनापि, गृहीतौ द्वौ मलिम्लुचौ ॥ ८८ ॥ मञ्जूषां निहितौ तौ च, नृपो नद्यामवाहयत् ॥ दयार्द्रचेता न पुन-रियामास तौ स्वयम् ॥ ८९ ॥ यान्ती नदीजले वीक्ष्य, तां पेटा केप्यकर्षयन् ॥ तां समुद्घाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥ ९०॥ युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासराः? अद्य तुर्यं दिनमिति, तयोरेकोब्रवीत्तदा ॥ ९१ ॥ कथं तुर्यमहर्जात-मिति पृष्टा भुजिष्यया ॥ देव्यूचे श्व इदं वक्ष्ये, निद्राकालो ह्युपस्थितः ॥ ९२ ॥ पञ्चमेपि दिने राज्ञा, कौतुकाद्दत्तवारका ॥ तथैव दास्या पृष्टा चे-त्यूचे कनकमंजरी ॥ ९३ ॥ तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां, दास्या पृष्टैवमब्रवीत् ॥ ९४ ॥ जज्ञिरे UTR-2 ॥६६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy