________________
उत्तराध्य
यनसूत्रम्
॥३३७॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ४०-५३
सोऽसकृत् ॥३९॥ इङ्गिनीमृत्युना मर्तु-मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥४०॥ भो ! मित्राऽमात्रधीपात्र ! नैतत्कापुरुषोचितम् ॥ युज्यते भवतः कर्तुं, सिंहस्येव तृणाशनम् ॥४१॥ | किञ्चातितुच्छभोगार्थं, दुर्लभं मानुषं भवम् ॥ मा हार्षी सदां रत्न-मिव काचकृते कृतिन् ! ॥४२॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि ॥ धर्ममेवाचराभीष्ट - दायिनं सुरशाखिवत् ॥४३॥ मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य सः ॥ आपादादाशिरोदेह-माच्छाद्य छागगोमयैः ॥४४॥ चिरं दास्वदङ्घ्रिभ्यां, प्रदत्तेनाग्निना ज्वलन् ॥ देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥४५॥ [ युग्मम् ] तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ॥ अहो ! विमूढा भोगार्थं, क्लिश्यन्त इति चिन्तयन् ॥४५॥ प्रव्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते ॥ ददर्शा:वधिना तं च, वयस्य पूर्वजन्मनः ॥४७॥ [ युग्मम् ] उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे ॥ नश्यतोऽपि गले विद्यु-न्मालिनः पटहोऽपतत् ॥४८॥ अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? ॥ इति हासाप्रहासाभ्यां प्रोचे स व्यन्तरस्तदा ॥४९॥ ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः ॥ तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा | | ॥५०॥ ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ॥ तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ॥५१॥
स्वतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ ॥ सुरान् शक्रादिकान्को हि, न जानातीति सोऽप्यवक् ? ॥५२॥ ततः | प्राग्भवस्यं स्वं, प्रदर्येत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥५३॥ मृतं कुमृत्युना प्रेक्ष्य, तदा
UTR-2
॥३३७॥