SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३३६॥ ३ अष्टादशम ध्ययनम् उदायनराजर्षिकथा २६-३९ पश्यामी-त्युक्ते तेन जगौ जरन् ॥ वटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः ॥२६॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः॥ ततस्तूर्णं त्वमुत्प्लुत्या-ऽमूढोऽस्मिन्विलगेस्तरौ ॥२७॥ वसन्ति वसतावस्मिन्, गिरौ भारण्डपक्षिणः ॥ ते च प्रातः पञ्चशैलं, व्रजन्ति चुणिहेतवे ॥२८॥ अंहयः स्युस्त्रयस्तेषां, ततस्त्वं मध्यमे क्रमे ॥ पटेन स्वं निबध्नीयाः, तस्य सुप्तस्य कस्यचित् ॥२९॥ ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु प्रवया, ग्रहीतुं न हि तं वटम् ॥३०॥ वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति ॥ तत्रैव च मया सार्द्ध, विनाशमुपयास्यति! ॥३१॥ अथ त्वमपि चेद्व्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त्त, गते पोते मरिष्यसि! ॥३२॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ ॥ विलग्नः सोऽपि तत्र द्राक् , पञ्चशैलमगात्ततः ॥३३॥ तं चायातं भोक्तुमुत्कं, ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं, न नौ भोगाय कल्पसे ! ॥३४॥ कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः ॥ सोढदाहादिकष्टं च, स्वर्णमप्यश्नुते मणीन् ! ॥३५॥ तद्गत्वा स्वगृहं दत्त्वा, दीनादीनां निजं धनम् ॥ कृत्वा वह्निप्रवेशादि-कष्टं त्वमपि सत्वरम् ॥३६॥ द्वीपस्यास्य श्रियामासा-मावयोश्च पतिर्भव ॥ भूरिलाभाय दक्षैर्हि, किञ्चिकष्टमपीष्यते! ॥३७॥ [युग्मम्] अथ तत्र कथं यामी-त्युक्ते रक्तेन तेन ते ॥ चम्पापुर्या निन्यतुस्तं, कलादं विकलं स्मरात्! ॥३८॥ कथमागाः किञ्च चित्रं ? , तत्रेत्युक्तोऽथ नागरैः ॥ हा! क्व हासाप्रहासे ते, इत्येव स्माह UTR-2 ॥३३६॥ १ रात्रौ ॥२ चरितुम् ॥३ वृद्धः ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy