SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥६०॥ द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहितवान् ! ॥५६॥ तथामूलम्--अहो ते अज्जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥ ५७ ॥ व्याख्या-- स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति सूत्रद्व| यार्थः ॥५७ ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाह-- मूलम्-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥ ५८॥ व्याख्या-इहास्मिन् लोके असि वर्त्तसे उत्तमः उत्तमगुणान्वितत्वात्, हे भदंत ! हे पूज्य ! 'पेच्चत्ति' प्रेत्य परलोके भविष्यसि उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सूत्रार्थः ॥५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ सद्धाए । पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को ॥ ५९ ॥ व्याख्या-- एवमुक्तन्यायेन अभिष्टवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ॥५९ ॥ मूलम्-तो वंदिऊण पाए, चक्कंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ॥६०॥ व्याख्या-- ततस्तदनन्तरं वन्दित्वा पादौ चक्राङ्कशलक्षणौ मुनिवरस्य आकाशेन उत्पतितः स्वर्गाभिमुखं गतः ललिते च ते सविलासतया चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः सचासौ किरीटी च मुकुटवान् ललितचपलकुण्ड UTR-2 ॥६०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy