SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥ ५९॥ व्याख्या - अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्यादिति सर्वत्र गम्यम् । कामेषु च प्रार्थ्यमानेष्ववश्यं भाविनः क्रोधादयस्ते चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ॥ ५४ ॥ इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह---- मूलम्--अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं । वंदइ अभित्थुणंतो इमाहि महराहि वग्गृहि ॥५५॥ व्याख्या--अपोह्य त्यक्त्वा ब्राह्मणरूपं विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुति | कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ॥ ५५ ॥ तथा हि मूलम् -- अहो ते निज्जिओ कोहो, अहो ते माणो पराजिओ। अहो ते निरकिआ माया, अहो ते लोहो वसीकओ॥५६॥ व्याख्या-- अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमन्नृपवशीकरणाय प्रेरितोपि न क्षुभितः। तथा अहो! ते मानः पराजितो यस्त्वं मन्दिरं दह्यत इत्याद्युक्तोपि कथं मयि जीवतीदं स्यादिति नाहङ्कृतिं कृतवान् ! अहो । ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् । तथाऽहो! ते लोभो वशीकृतो यस्त्वं हिरण्यादिव UTR-2 ॥५९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy