________________
उत्तराध्य
यनसूत्रम्
॥२६१ ॥
१५
१८
२१
२४
बाष्पाम्बुपूर्णाक्षौ परस्परमपश्यताम् ॥७९॥ [ युग्मम् ] खेचरीनिकरे त्यक्त - गीतादितुमुले ततः ॥ कुमारः स्वदृशो - रश्रु, प्रमृज्य तमदोऽवदत् ॥ ८० ॥ त्वमत्रागाः किमेकाकी, कथं वा मामिहाऽविदः ? || अन्तरा मामियन्तं चा-गमयः समयं कथम् ? ॥ ८१ ॥ पित्रो का विद्यते हृद्य!, मद्वियोगवशाद्दशा ॥ पितृभ्यां प्रहितो हन्त, त्वमिहापि किमेककः ? ॥८२॥ तेनेति पृष्टः स्निग्धेषु प्रष्ठो गद्गदया गिरा ॥ महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ॥८३॥ ततः स्नेहं च धैर्यं च, सकर्णस्तस्य वर्णयन् ॥ कुमारोऽकारयत् स्नान-भोजनादि वधूजनैः ॥८४॥ महेन्द्रोऽथ कुमारेन्द्र - मित्युवाच कृताञ्जलिः ॥ आरभ्याश्वापहारात्स्वां, वार्त्ता ब्रूहि प्रसद्य मे ! ॥८५॥ तेनेत्युक्तः कुमारोऽन्तरिति दध्यौ विशुद्धधीः ॥ स्वनामेव स्वयं वक्तु-मयुक्ता स्वकथा सताम् ! ॥ ८६ ॥ स्वतुल्यस्य वयस्यस्य वाच्या चावश्यमस्य सा ।। कथयामि तदन्येन केनाप्येनां सविस्तराम् ॥८७॥ ध्यात्वेति कान्तां बकुल-मत्याह्वामिति सोऽवदत् ॥ प्रियेऽस्मै मत्कथां तथ्यां वद विज्ञाय विद्यया ॥ ८८॥ शुभाशये ! शयेऽहं तु निद्राघूर्णितलोचनः ॥ इत्युदित्वा रतिगृहं प्रविश्याशेत भूपभूः ॥८९॥ ततो महेन्द्रसिंहं सा ऽवदत्तव सुहृत्तदा ॥ निन्ये हयेन हृत्वाऽऽशु, कान्तारमतिभीषणम् ॥९०॥ द्वितीयेऽपि दिने तत्र व्रजन् वाजी जवेन सः ॥ तस्थौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्तृषातुरः ॥ ९१ ॥ ततः स्तब्धक्रमाच्छासा - पूर्णकण्ठात् श्रमाकुलात् ॥ तस्मादुत्तीर्यार्यपुत्रः पर्याणमुदतारयत् ॥९२॥ घूर्णित्वाऽश्वस्ततोऽपप्तत् प्राणैश्च मुमुचे द्रुतम् ॥ तृषाकुलः सखा ते तु तदाटीत्परितोऽम्भसे ॥९३॥ तच्चाप
अष्टादशमध्ययनम्
(१८)
सनत्कुमारचक्रिकथा
७९-९३
UTR-2
॥२६१ ॥