________________
उत्तराध्य
यनसूत्रम्
॥२६० ॥
अन्तःपुरपुरन्ध्रीवदसूर्यम्पश्यजम्बुकाम् ||६४|| क्वचित्कण्ठीरवरव-त्रस्यन्मृगकुलाकुलाम् ॥ क्वापि दावाग्निसन्तापमुर्मुरीभूतभूतलाम् ॥६५॥ क्वचिच्छरभसंरम्भ - सम्भ्रान्तोदान्तकुञ्जराम् । शाखारूढैरजगरैः, क्वापि कुब्जीकृतद्रुमाम् ॥६६॥ तस्याटवीं तामटतो, भीषणेभ्योऽपि भीषणाम् ॥ शनैः शनैरगात्सर्वः खेदखर्वः परिच्छदः ॥६७॥ [ षभिः कुलकम् ] तत एकोऽपि कुञ्जेषु, कन्दरासु च भूभृताम् ॥ भिल्लेश इव सोऽभ्राम्यन्मित्रं द्रष्टुं धनुर्द्धरः ॥ ६८ ॥ निदाघवर्षाशीततून्, क्षुधातृष्णाश्रमांश्च सः ॥ मित्रैकतानो नाज्ञासी द्योगीव ध्यानतत्परः ॥६९॥ तस्यैवं भ्राम्यतोऽटव्यां व्यतीते वत्सरेऽन्यदा । कर्णातिथित्वमगमत्सरसः सारसध्वनिः ॥७०॥ घ्राणं चाप्रीणयद्वायुः, कमलामोदमेदुरः ॥ ततः पद्मसरः किञ्चि-दिहास्तीति विवेद सः ॥ ७१ ॥ सोऽथ पद्माकरमभि व्रजन् वीरव्रजाग्रणीः ॥ सद्गीतमिश्रमश्रौषी - द्वेणुवीणाकलक्वणम् ॥७२॥ ततः प्रमुदितः प्राज्ञ पुरोगस्स पुरो गतः । ददर्श दर्शनसुधा -ञ्जनं मित्रं वधूवृतम् ॥ ७३ ॥ किं मनोविभ्रमः किं वा सखाऽसौ मे सुखाकरः ? ॥ सोऽथ ध्यायन्निति तदेत्य श्रौषीद्बन्दिनो वचः ॥७४॥ कुरुवंशावतंस श्री अश्वसेननृपात्मज ! ॥ सनत्कुमार ! सौभाग्य- जितमार ! चिरं जय निशम्येति प्रमोदाश्रु वृष्टिमेघायितेक्षणः ॥ गत्वा स दृक्पथं सख्युर्न्यपतत् पादपद्मयोः ॥ ७६ ॥ अभ्युत्थाय कुमारोऽपि दोर्भ्यामादाय सादरम् ॥ तमालिलिङ्ग सर्वाङ्ग, हर्षाः स्नपयन्निव ॥७७॥ अथाचिन्त्यमिथः सङ्गात्तौ भृशं जातविस्मयौ ॥ हर्षोदञ्चद्रोमहर्षावासीनावासनद्वये ॥७८॥ वीक्षितौ खेचरगणैः स्मयमानै सविस्मयैः ॥ क्षणं
।।७५ ।।
अष्टादशमध्ययनम्
सनत्कुमारचक्रिकथा६४-७८
UTR-2
॥२६०॥