SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ब * उत्तराध्ययनसूत्रम् ॥२५९॥ अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा४-१८ मयेऽन्यदा ॥ समं महेन्द्रसिंहेन, क्रीडायै भूपभूर्ययौ ॥४९॥ नानाक्रीडाभिरक्रीड-त्सत्रा मित्रेण तत्र सः ॥ तदा | च राज्ञोऽश्वपति-वर्यान्वाहानढौकयत् ॥५०॥ हयं जलधिकल्लोला-ह्वयं भूपभुवोऽप्यधात् ॥ कुमारोऽपि तमारोह-त्तद्गतिं द्रष्टमुत्सुकः ॥५१॥ कशां चोरिक्षप्य तं यावत्, प्रेरयामास भूपभूः ॥ सोऽश्वस्तावद्दधावोच्चै-वायुं जेतुमना इव ॥५२॥ यथा यथाकृषद्वल्गां, रक्षितुं तं नृपाङ्गजः ॥ स वक्रशिक्षितो वाहो, बह्वधावत्तथा तथा ॥५३॥ राज्ञां राजकुमाराणां, सादिनां धावतामपि ॥ मध्यात्कुमारं हृत्वाऽश्वः, क्षणात्सोऽगाददृश्यताम् ॥५४॥ ततोऽश्वसेनभूशक्रो, ज्ञात्वाऽश्वापहृतं सुतम् ॥ प्रत्यानेतुं ससैन्योऽगा-द्यावद्वाजिपदानुगः ॥५५॥ तावद्भरिरजःपुञ्ज-दिग्मूढीकृतसैन्यया ॥ भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ॥५६॥ निरुपाये ततोऽत्यर्थं, व्याकुले सकले बले ॥ महेन्द्रसिंहो भूमीन्द्र-सिंहमित्थं व्यजिज्ञपत् ॥५७॥ देव! देवादिदं सर्व-मजनिष्टासमञ्जसम् ॥ तथापि मित्रमन्विष्या-ऽऽनेष्यामि न चिरादहम् ॥५८॥ प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः ॥ सुकरा सा खगस्येव, स्वल्पतंत्रस्य मे पुनः ॥५९॥ तत्तिष्ठतु प्रभुर्यामि, स्वामिन्! सुहृदमन्वहम् ॥ तेनेत्युक्तोऽवलिष्टोर्वी-पतिरश्रुजलाविल: ॥ ६० ॥ धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः ॥ क्रीडावनी यमस्यैवा-ऽरण्यानीं प्रविवेश ताम् ॥६१॥ प्रौढपादैरुग्रदन्तैः, प्रक्षरन्मदनिझरैः ॥ करीन्द्रैश्च गिरीन्द्रश्च, क्वापि दुर्गमतां गताम् ॥६२॥ क्वापि प्रारब्धसमर-सैरिभोत्खातपादपाम् ॥ सङ्कीर्णा केशरीव्याघ्र-व्यालभल्लूकसूकरैः ॥६३॥ भानुभानुगणाभेद्य-निकुञ्जनिकरैः क्वचित् ॥ UTR-2 ॥२५९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy