SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२५८॥ अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा३५-४८ | पूर्जनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रव्रज्य जिनधर्मवित् ॥३५॥ पुरान्निर्गत्य विहिता-ऽनशनोऽद्रिशिरस्थितः। | पक्षं पक्षं कृतोत्सर्गः, क्रमादस्थाच्चतुर्दिशम् ॥३६॥ [ युग्मम् ] गृध्रकाकादिभिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः ॥ सह मानो व्यथामुग्रां, स्मरन् पञ्चनमस्क्रियाः ॥ ३७ ॥ विपद्य प्रथमस्वर्गे, बभूव त्रिदशाधिपः ॥ आनुषङ्गि फलं ह्येतत्, जिनधर्मविधायिनाम् ॥३८॥ [ युग्मम् ] तापसोऽपि मृतस्तेना-ऽऽभियोग्येन कुकर्मणा ॥ ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ॥३९॥ ततश्च्युत्वा भवे भ्रान्त्वा, कृत्वा बालतपः क्वचित् ॥ यक्षोऽसिताक्षनामाभू-ज्जीवस्तस्य त्रिदण्डिनः ॥४०॥ इतश्चात्रैव भरते, विषये कुरुजङ्गले ॥ अस्ति स्वस्तिपदं श्रीम-नगरं हस्तिनापुरम् ॥४१॥ जैत्रसेनोऽश्वसेनाह्वस्तत्राभूद्भभुजां वरः ॥ सहदेवीति तस्यासी-द्देवी देवीव भूगता ॥४२॥ तस्याः कुक्षौ जिनधर्म-जीवः स्वर्गात्परिच्युतः ॥ चतुर्दश महास्वप्नान्, दर्शयन् समवातरत् ॥४३॥ पूर्णे कालेऽथ साऽसूत, सुतं लक्षणलक्षितम् ॥ जगज्जनमनोहारि, रूपं लक्ष्मीरिव स्मरम् ॥४४॥ सनत्कुमार इत्याख्या, चक्रे तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इवोद्गतः ॥४५॥ श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः ॥ सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ॥४६॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः, कलाः जग्राह लीलया ॥४७॥ अमंत्रयंत्रनिश्शेष-कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं, कुमार प्राप स क्रमात् ॥४८॥ उद्यानं मकरन्दाख्यं, वसन्तस UTR-2 ॥२५८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy