SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ।। २५७॥ १५ १८ सुव्रताचार्यन्निधौ । राज्यं रज इवोत्सृज्य, प्रव्रज्यामाददे नृपः ॥ २१ ॥ तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ॥ चिरं विहृत्य व्यापन्न - स्तृतीयं स्वर्जगाम सः ॥२२॥ ततश्च्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठपुत्रः श्राद्धधर्म, शुद्धं बाल्यादपि श्रितः ॥२३॥ इतश्च कान्ताविरहा-नागदत्तोऽतिदुःखितः ॥ मृत्वार्त्तध्यानतो भ्रामं भ्रामं तिर्यक्षु भूरिशः ॥२४॥ अग्निशर्माह्वयो विप्रः, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं, स्वीचकार स चैकदा ॥२५॥ [ युग्मम् ] द्विमासादि तपः कुर्वन्, सोऽगाद्रत्नपुरेऽन्यदा ॥ त्रिदण्डिभक्तस्तत्राभू, द्भूपतिर्नरवाहनः ॥ २६ ॥ तेन राज्ञा तपस्वीति, भोक्तुं नीतो निजे गृहे ॥ सोऽपश्यज्जिनधर्मं तं दैवात्तत्रागतं तदा ॥२७॥ ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमीश - मित्यूचे स त्रिदण्डिकः ॥२८॥ अस्याढ्यस्य न्यस्य पृष्ठे, पात्रमत्युष्णपायसम् ॥ चेद्विभो ! भोजयसि मां तदा भुञ्जे भवद्गृहे ॥ २९ ॥ स्थालमन्यस्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो, दुष्टो भूयोऽवदद्व्रती ॥ ३० ॥ पृष्ठेऽस्यैव न्यस्य पात्रं, भुञ्जे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूपः प्रत्यपद्यत तद्वचः ॥३१॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं न्यस्य भोक्तुं प्रचक्रमे ॥ ३२ ॥ श्राद्धोऽपि स्थालतापं तं सोऽधिसेहे विशुद्धधीः ॥ स्वस्यैव कर्मणोऽयं हि विपाक इति चिन्तयन् ॥३३॥ भुक्ते भिक्षौ श्रेष्ठपृष्ठात्समं त्वग्मांसशोणितैः ॥ जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥ ३४ ॥ सत्कृत्य क्षमयित्वाऽथ, स्वजनान् अष्टादशम ध्ययनम् ( १८ ) सनत्कुमार चक्रिकथा २१-३४ UTR-2 ॥२५७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy