SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अध्य. १४ उत्तराध्ययनसूत्रम् ॥१८३॥ त्रिदशश्रेष्ठा - चतुःपल्योपमायुषः ॥ (युग्मम् ) तत्रापि विविधैर्भोगै-रतिवाह्यायुरात्मनः॥ गोपजीवामरौ मुक्त्वा-ऽच्यवन्त प्राक्सुराः परे ॥ ८ ॥ तेष्वेकः कुरुदेशोर्वी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा -निषुकाराभिधोऽभवत् ॥ ९॥ अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जयवाहिनी ॥१०॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरीयस्तु यशाभिधा ॥११॥ पुरोहितस्य तस्याभू - त्कालेऽपि न यदाङ्गजः ॥ तदा तच्चिन्तयात्यन्त - मन्तः स व्याकुलोऽभवत् ॥१२॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥१३॥ दैवज्ञपृच्छां देवोप-याचितानि च सोऽन्वहम् ॥ व्यधात् पुत्रार्थमातॊ हि, देवादीन् बहु सेवते ॥१४॥ इतश्च तौ गोपजीवदेवाववधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव इति ज्ञात्वा महाशयौ ॥ १५ ॥ निर्ग्रन्थरूपं निर्माय, भृगो: सौधे समेयतुः ॥ तौ प्रेक्ष्य मुदितः सोऽपि प्राणमद्रमणीयुतः ॥ १६ ॥ (युग्मम् ) श्रुत्वा तद्देशनां श्राद्ध - धर्मं च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ!, पुत्रा मे भाविनो न वा ॥१७॥ तावुचतुः सुतौ द्वौ ते, भाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥ नान्तरायस्तदा कार्यः, प्रव्रज्यां गृह्णतस्तयोः ॥ तौ हि प्रव्रजितौ लोकं, प्रभूतं बोधयिष्यतः ॥ १९॥ इत्युक्त्वा तौ गतौ देवा-वन्यदा च ततश्चयुतौ ॥ गर्भे पुरोधसः पल्या, यशाया अवतेरतुः ॥२०॥ ततः सभार्यो गत्वाऽस्थाद् ग्रामे क्वापि पुरोहितः ॥ आजन्मापि मुनीन्मा स्म पश्यतां मत्सुताविति ॥२१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च तौ बालौ, तत्र पद्माविव हदे ॥२२॥ दैवादिहागतान्साधु-मा स्म सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमेतौ ग्रहीष्यतः ॥२३॥ १ इन्द्राणी । UTR-2 ॥१८३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy