SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ।। १८२ ॥ जस्य स्वकर्मशीलस्य यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सरित्तु त्ति' स्मृत्वा पौराणिकीं चिरन्तनीं तत्रेति सन्निवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः । तथा सुचीर्णं निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ॥ ५ ॥ ततस्तौ यदका तदाह- मूलम् - ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे आवि दिव्वा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥ ६ ॥ व्याख्या - तौ पुरोहितसुतौ कामभोगेषु 'असज्जमाण त्ति' असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकांक्षिणौ अभिजातश्रद्धौ उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं "उदाहुत्ति" उदाहरतां उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६ ॥ भावार्थत्वेषां सूत्राणां कथानकादवसेयस्तत्सम्प्रदायश्चायं तथाहि- , चित्रसम्भूतयोः पूर्वभवेयौ सुहृदावुभौ ॥ अभूतां 'वल्लवौ साधु- सेवाध्वस्तविपल्लवौ ॥१॥ तावपि व्रतमाराध्या भवतां भासुरौ सुरौ ॥ व्रतं हि चेन्न मोक्षाय, तर्हि स्वर्गाय जायते ॥ २ ॥ क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्चयुतौ । सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ॥ ३ ॥ इभ्यपुत्रास्तयोस्तत्र चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः पुण्य- शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगांस्ते षडप्यन्यदा मुदा ॥ श्रुत्वा धर्मं गुरूपान्ते, प्राव्रजन् विजितेन्द्रियाः ॥ ५ ॥ पालयित्वा चिरं दीक्षामधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते ते विपद्य महर्षयः ॥ ६ ॥ विमाने पद्मगुल्माहवे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे १- गोपी। UTR-2 अध्य. १४ ॥१८२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy