________________
उत्तराध्य
यनसूत्रम्
॥२९९॥
ततो विन्यस्य तौ सुतौ ॥ प्रव्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानबोधयत् ॥ ३६७॥ नम्रोर्व्वीशशिरः स्रस्त-माल्यपूजितपत्कजः ॥ अन्वशान्मेदिनीं मेघ- रथो द्यां मघवानिव ॥ ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः ॥ एत्य पारा - पतः कोऽपि, पपाताङ्के भयाकुलः ॥ ३६९ ॥ शरणं मार्गयन् सोऽथ, शंकुन्तो मर्त्यभाषया ॥ मा भैषीरिति राज्ञोक्त-स्तदङ्के स्थितवान् सुखम् ॥३७० ॥ मम भक्षमिदं देव ! विमुञ्चेत्युच्चकैर्वदन् ॥ तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ॥३७१॥ नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥ प्राणान्तेऽपि हि रक्षन्ति क्षत्रियाः शरणागतम् ॥ ३७२ ॥ अन्यच्च युज्यते नैव भवतोऽपि विवेकिनः ॥ अपहृत्य परप्राणा नेवं स्वप्राणपोषणम् ॥ ३७३ ॥ स्वजीवितं यथेष्टं ते तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं तथान्यमपि रक्ष भोः ! ॥ ३७४ ॥ भुक्तेनाप्यमुना भावि, सौहित्यं क्षणमेव ते ॥ सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः || ३७५ || आहारेणापरेणापि, क्षुद्व्यथा क्षीयते क्षणात् प्राणिहिंसोत्थनरक-व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिंसां, धर्ममाश्रय सन्मते ! ॥ अत्रामुत्र च येन त्वं, लभसे सुखमुत्तमम् ॥३७७॥ ततो नरेश्वरं श्येनः प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ क्षुत्पीडापीडितोऽहं तु ब्रूहि कं शरणं श्रये ? ॥ तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ॥३७९॥ धर्माधर्मविचारोऽपि सति स्वास्थ्येऽङ्गिनां भवेत् ॥ बुभुक्षितो हि किं पापं न करोतीति न
श्रुतम् ?
१ पक्षी ॥ २ तृप्तिः ।
अष्टादशमध्ययनम्
( १८ ) शान्तिनाथचरित्रम्
३६७-३८०
UTR-2
॥२९९॥