SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अध्य. ११ उत्तराध्ययनसूत्रम् ॥९८॥ लोलुपोऽत्यन्तं रसलम्पटः, अक्रोधनः क्षमावान्, सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीले त्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥ ५ ॥ किञ्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाह -- मूलम्--अह चउदसहि ठाणेहिं, वट्टमाणे उ संजए । अविणीए वुच्चई सो उ, निव्वाणं च न गच्छइ ॥ ६ ॥ व्याख्या-- अथेति प्राग्वत्, चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात्, वर्तमानस्तिष्ठन्, तुः पूरणे, संयतो मुनिरविनीत इत्युच्यते, 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ॥ ६ ॥ चतुर्दशस्थानान्याह- .. मूलम्-- अभिक्खणं कोही हवइ, पबंधं च पकुव्वई । मित्तिज्जमाणो वमइ, सुअं लभ्रूण मज्जइ ॥ ७ ॥ व्याख्या--अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुव्वइत्ति' प्रकर्षेण करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २ । 'मित्तिज्जमाणोत्ति' मित्रीयमाणोऽपि |X मित्रं ममायमस्त्वितीष्यमाणोऽपि अपेलृप्तस्य दर्शनाद्वमति त्यजति, प्रस्तावान्मैत्री, अयं भाव:- यदि कोऽपि साधुर्धामिकतया वक्ति, यथाहं तव पात्रलेपादि कार्यं कुर्वे इति, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ । तथा 'सुअंति' अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति, दर्प याति । श्रुतं हि मदापहं, स तु तेनापि दृप्यतीति भावः ४ ॥७॥ UTR-2 ॥९८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy