SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अध्य. ११ उत्तराध्ययनसूत्रम् ॥९७॥ यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः। इह च सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ॥ २ ॥ अथेदृशमबहुश्रुतत्वं बहुश्रुतत्वञ्च कथं स्यादित्याह-- मूलम् --अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई । थंभा कोहा पमाएणं, रोगेणालस्सएण य ॥ ३ ॥ व्याख्या-- अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैर्वक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीदृशमबहुश्रुतत्वं | प्राप्यत इति शेषः । कैः पुनः सा न लभ्यते? इत्याह-स्तम्भात् मानात्, क्रोधात् कोपात् , प्रमादेन मद्यादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः । चशब्दः समस्तानां व्यस्तानाञ्चैषां हेतुत्वं द्योतयति ॥ ३ ॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाह-- मूलम्-- अह अट्टहिं ठाणेहि, सिक्खासीलेत्ति वुच्चइ । अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥ ४ ॥ व्याख्या--अथाष्टभिः स्थानैः शिक्षां शीलयत्यभ्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह-- 'अहस्सिरे त्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान्, न च मर्म परापभ्राजनकारि उदाहरेत् उच्चारयेत् ॥ ४॥ मूलम्-- नासीले न विसीले अ, न सिआ अइलोलुए । अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥ ५ ॥ व्याख्या--न नैव अशीलः सर्वथाशीलविकल: न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदति-- UTR-2 ॥९७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy