SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ अथैकादशमध्ययनम् ॥ अध्य. ११ उत्तराध्ययनसूत्रम् ॥१६॥ ॥अर्हम् ॥ उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता, सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम्मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुचि सुणेह मे ॥१॥ ___ व्याख्या संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधि बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि आनुपूर्व्या क्रमेण शृणुत मे मम वदत इति शेष इति सूत्रार्थः ॥ १॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतस्वरूपञ्चाबहुश्रुतस्वरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्स्वरूपं तावदाहमूलम्-जे आवि होइ निविज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥२॥ व्याख्या-यः कश्चित्, चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निर्विद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि शब्दस्यह सम्बन्धात्सविद्योऽपि स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्मकोऽस्येत्यनिग्रहः, | अभीक्ष्णं, पुनः पुनः उत् प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्ति उल्लपति, अविनीतश्च विनयरहितः, 'अबहुस्सुएत्ति' UTR-2 ॥१६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy