________________
उत्तराध्ययनसूत्रम्
॥ ९९ ॥
मूलम् - अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पड़ । सुप्पि अस्सावि मित्तस्स, रहे भासइ पावगं ॥८॥ व्याख्या -- अपि सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तान्निदतीत्यर्थः ५ । अपिभिन्नक्रमस्ततो मित्रेभ्योऽपि सुहृदभ्योऽपि कुप्यति क्रुध्यति सूत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्यापि मित्रस्य रहसि एकान्ते भाषते पापमेव पापकं, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोऽयमित्यादिकं तद्दोषमेवाविष्करोतीति भावः ७ ॥ ८ ॥
मूलम् - पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अविअत्ते, अविणीएत्ति वुच्चई ॥ ९ ॥
व्याख्या प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८ । 'दुहिलेत्ति' द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । स्तब्धस्तपस्व्यहमित्याद्यहङ्कृतिमान् १० । लुब्धो भोज्यादिष्वभिकांक्षावान् ११ । अनिग्रहः प्राग्वत् १२ । असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै स्वल्पमपि यच्छति किन्त्वात्मानमेव पोषयति १३ । 'अविअत्तेत्ति' अप्रीतिकरो दृश्यमानो भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति १४ । एवंविधदोषान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ॥ ९ ॥ इत्थमविनीतस्थानान्युक्त्वा विनीतस्थानान्याहमूलम् -- अह पण्णरसहिं ठाणेहिं, सुविणीएत्ति वुच्चई । नीआवित्ती अचवले, अमाई अकुऊहले ॥ १० ॥
UTR-2
अध्य. ११
॥९९॥