SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अध्य. ११ उत्तराध्ययनसूत्रम् ॥१०८॥ व्याख्या--यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिमेरुपर्वतः नानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षण ज्वलितोदीप्तो नानौषधिप्रज्वलितः, औषधयो एतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात्, * एवं भवति बहुश्रुतः । सोऽपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षोषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ॥२९॥ किंबहुना ? मूलम्-- जहा से सयंभुरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥ ३० ॥ व्याख्या-- यथा स स्वयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स, तथा नानारत्नैर्मरकतादिभिः प्रतिपूर्णो नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोऽपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह-- मूलम्-- समुद्दगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया । सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥३१॥ व्याख्या--'समुद्दगंभीरसम त्ति' आर्षत्वाद्गाम्भीर्येणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासय त्ति' दुःखेनाश्रीयन्ते पराभवबुद्ध्या केनापीति दुराश्रयाः, अत एवाचकिताः अत्रस्ता: केनचित् परीषहपरवाद्यादिना, तथा दुःखेन प्रधर्घ्यन्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्स त्ति' सुप्व्यत्ययात् UTR-2 ॥१०८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy