SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अध्य. ११ उत्तराध्ययनसूत्रम् ॥१०९ ॥ | श्रुतेनागमेन पूर्णा भृता विपुलेन अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः। त्रायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः । क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि गतिमुत्तमां मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेऽपि बहुवचननिर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाह-- मूलम्--तम्हा सुअमहिट्ठिज्जा, उत्तिमट्ठगवेसए । जेणप्पाणं परं चेव, सिद्धिं संपाउणिज्जासि त्ति बेमि ॥ ३२ ॥ व्याख्या--'तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत्, अध्ययनश्रवण - चिन्तनादिना श्रयेत, उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चैव सिद्धि मुक्ति सम्प्रापयेदिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमीति प्राग्वत् ।। इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥११॥ UTR-2 ॥१०९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy