________________
॥ अथ द्वादशमध्ययनम्
॥
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११०॥
॥अर्हम् ॥ उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थं तपःसमृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थं हरिकेशबलचरितं तावदुच्यते । तथाहि--
मथुरायां महापुर्या, शंखनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥ १॥ क्रमाद्गीतार्थतां प्राप्तो, विहरन् वसुधातले ॥ सोऽगाव्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ॥ २ ॥ एका रथ्या हुतवह-रथाह्वा तत्र चाभवत् । सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥३॥ ताञ्चातिगन्तुं पादाभ्यां, मुर्मुरोपमवालुकाम् ॥ नाभूत्कोऽपि प्रभुर्वज्र-वालुकामिव निम्नगाम् ॥ ४ ॥ यश्चाज्ञानाज्जनस्तस्यां, रथ्यायां प्रविशेत्तदा ॥ स द्राक् म्रियेत चनको, भृज्ज्यमान इवोच्छलन् ।। ५ ।। ताञ्च प्राप्तो भ्रमन् साधु-रसञ्चारां समीक्ष्य सः ॥ पप्रच्छासन्नसौधस्थं, सोमदेवपुरोधसम् ॥६॥ मार्गेणानेन गच्छामि, न वेति वद सन्मते ! ॥ न ह्यज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ॥ ७ ॥ दन्दह्यमानं मार्गेऽस्मिन् , विलुठन्तमितस्ततः ।। पश्याम्येनमिति द्विष्टः, सोऽप्यूचे गम्यतामिति ॥ ८ ॥ ततस्तेनैव मार्गेण, गन्तुं प्रववृते व्रती ॥ तन्महिम्ना स मार्गोऽभू-त्सलिलादपि शीतलः ॥ ९ ॥ पुरोहितोऽपि तं द्रष्ट-मारोहद्गेहकुट्टिमम् ॥ तञ्चोपयुक्तं तत्रापि, यान्तमद्तमैक्षत ॥ १० ॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्गे
UTR-2
॥११०॥