________________
उत्तराध्ययनसूत्रम्
॥ २०३ ॥
मूलम् - सासणे विगयमोहाणं, पुव्विं भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥ ५२ ॥ व्याख्या - शासने विगतमोहानामर्हतां पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि, अचिरेणैव कालेन स्वल्पकालेनैव दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः ॥ ५२ ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह -
मूलम् - राया य सह देवीए, माहणो अ पुरोहिओ । माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि ॥ ५३ ॥ व्याख्या - राजा इषुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्राह्मणी यशा, दारकौ तत्पुत्रौ चैव पूर्त्ते, सर्वाणि तानि परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५३ ॥ इति ब्रवीमीति प्राग्वत् ॥
➖➖➖➖➖➖‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्यो - पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ॥ १४ ॥
UTR-2
अध्य. १४
॥२०३॥