________________
॥ अथ पञ्चदशमध्ययनम् ॥
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०४॥
॥ अहम् ॥ व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने | निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् -
मूलम् - मोणं चरिस्सामि समेच्च धम्म, सहिए उज्जुकडे निआणच्छिन्ने ।
संथवं जहिज्ज अकामकामे, अण्णाएसी परिव्वए स भिक्खू ॥१॥ व्याख्या-मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्म श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं -'इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स ॥ किं वा करेड़ इक्को, परिहरउ कहमकज्जं वा? ॥१॥ तथा ऋजुकृतोऽशठानुष्ठान: 'निआणछिन्ने त्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात्, संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत्, अकामकामः न कामाभिलाषी, अज्ञातस्तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खु त्ति' य एवं| विधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ॥१॥ सिंहतया विहारमेव विशेषत आह
UTR-2
॥२०४॥