SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३०५॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४४७-४६० चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणोद्गतैनीरैः, स्नपयामास स प्रभुम् ॥ गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच्च तम् | ॥४४८॥ अथादाय जिनं शक्रो-ऽचिरादेव्यन्तिकेऽमुचत् ॥ द्रागवस्वापिनीमर्ह-त्प्रतिरूपं जहार च ॥ ४४९ ॥ विनोदाय विभोरूज़, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वजी क्षौम कुण्डलयामले ॥४५०॥ जिने जिनजनन्यां च, यो | दुर्ध्यास्यति, दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मञ्जरी! ॥४५१॥ इत्युद्धोष्य सुरैरिन्द्रः, स्वर्णरत्नादिवर्षणम् ॥ श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ॥४५२॥ [ युग्मम् ] तत्र शाशनचैत्येषु, शक्रोऽन्येऽपि च | वासवाः ॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥४५३॥ वर्धापितोऽथ दासीभि-भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ॥४५४॥ गर्भस्थेऽस्मिन् सुते शान्ति-रशिवानामभूद्भुवि ॥ इति क्षितिपतिः शान्ति-रिति तस्याभिधां व्यधात् ॥४५५॥ निहितं हरिणाङ्गुष्ठे, पिबन् पीयूषमन्वहम् ॥ अद्वैतरूपतेजःश्री-र्ववृधेऽथ जगत्पतिः ॥४५६॥ पश्यतोरालिङ्गतोश्च मौलावाजिघृतोश्च तम्॥ पित्रोः सुखमभूद्ब्रह्म-मग्नयोरिव निस्तुलम् ॥४५७॥ निशम्य मन्मनालापां-स्तस्येष्टान् धुसदामपि॥ पितरौ पीतपीयूषा-विवात्यर्थमतुष्यताम् ॥४५८॥ भूपगेहाङ्गणं स्वामी, क्रमचङ्क्रमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिव जङ्गमः ॥४५९॥ शिशुभूतैः समं देवै-चलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्या, शैशवे शोभते ह्यदः ॥४६०॥ क्रमाच्च स्वव UTR-2 ॥३०५॥ १ चलोऽस्थिर: चूलाया मस्तकमध्यशिखाया अञ्चल: प्रान्तभागो यस्य स तथा ।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy