SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥३०४ ॥ ३ & आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ॥ ४३४ ॥ चतुर्दश महास्वप्नान्, सुखसुप्ता तदा च सा ॥ मुखे प्रविशतोऽपश्यत्प्रशस्याकारधारिणः ॥४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् ॥ सार्वो वा सार्वभौमो वा, भावी तव सुतः प्रिये ! ||४३६ ॥ प्राग्जातं शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावादशिवं शशाम कुरुमण्डले ॥४३७॥ गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् ॥ सुषुवे सा सुतं राज्ञी, स्वर्णवर्णं मृगध्वजम् ॥४३८॥ त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि जिनकल्याणकेष्वदः ! ॥ ४३९ ॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् ॥ षट्पञ्चाशद्दिकुमार्यः, सूतिकर्माणि चक्रिरे ॥ ४४० ॥ अथासनास्थैर्यदत्ता - 5 - वधिज्ञानोपयोगतः ॥ ज्ञात्वाऽर्हज्जन्म शक्रोऽपि तत्रागात्सपरिच्छदः ॥४४१ ॥ नत्वा जिनं जिनाम्बां च ज्ञापयित्वाऽभिधां निजाम् ॥ दत्त्वाऽवस्वापिनीं देव्याः, प्रभो रूपान्तरं न्यधात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽथ तेनैकेन जिनेश्वरम् ॥ द्वाभ्यां च चामरे ताभ्यामेकेन छत्रमुद्वहन् ॥ ४४३॥ एकेन च पुरो वज्र- मुत्क्षिपन् मघवा क्षणात् ॥ जगाम मेरुमौलिस्था - ऽतिपाण्डुकम्बलां शिलाम् ॥४४४॥ [ युग्मम् ] अङ्कन्यस्तजिनस्तत्रा - ऽध्यास्त सिंहासनं हरिः ॥ अन्येऽपि वासवाः सर्वे तत्रैयुश्चलितासनाः ॥ ४४५ ॥ ततस्तीर्थोदकैस्तीर्थकरं प्रागच्युताधिपः ॥ अभ्यषिञ्चत्तदनु च क्रमादन्येऽपि वासवाः ||४४६ ॥ अथेशानप्रभोरङ्के, जिनं विन्यस्य वज्रभृत् ॥ प्रभोश्चतुर्षु पार्श्वेषु विचक्रे १ अर्हन् सर्वज्ञः तीर्थकर इति यावत् ॥ २ चक्री ॥ ३ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन अशान्तमित्यर्थः ॥ अष्टादशमध्ययनम् शान्तिना थचरित्रम् ४३४-४४६ UTR-2 ॥३०४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy