SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३०३॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४२१-४३३ प्रतिमां पारयित्वागा-त्स्वधामाऽप्रतिमक्षमः ॥४२१॥ तत्राथ समवासार्षी-ज्जिनो घनरथोऽन्यदा ॥ तं चायातं निशम्यागा-त्सानुजो वन्दितुं नृपः ॥४२२॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः ॥ राज्यमेतद् गृहाणेति राजाऽवरजमब्रवीत् ॥४२३॥ त्वामनुप्रव्रजिष्यामि, कृतं राज्येन तन्मम ॥ तेनेत्युक्तोऽथ पृथ्वीशो, राज्येऽस्थापयदात्मजम् ॥४२४॥ साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहस्या च, गत्वा तीर्थङ्करान्तिकम् ॥४२५॥ स्वीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः ॥ अधीत्यैकादशाङ्गानि, विजहार च भूतले ॥४२६॥ [ युग्मम् ] विंशत्या स्थानकैरर्ह-त्सिद्धसेवादिभिः शुभैः ॥ तीर्थकृन्नाम सत्कर्म, सोऽर्जयामास सार्ज़वः ॥४२७॥ सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः ॥ पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम् ॥४२८॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः ॥ आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ॥४२९॥ तद्बान्धवोऽपि समये, कियत्यपि गते सति ॥ प्रायं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः ॥४३०॥ अथास्त्यत्रैव भरते, भरितं विपुलर्द्धिभिः ॥ पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥४३१॥ विश्वसेनो महासेनसेनाजित्वरसैनिकः ॥ तत्रासीद्भूमिसुत्रामा-ऽलकायाभि यक्षराट् ॥४३२॥ स्वाहा' स्वाहाप्रियस्यैवा-ऽचिरा तस्य | महिष्यभूत् ॥ रूपनिर्जितपौलोमी, शीलालङ्कारशालिनी ॥४३३॥ जीवो मेघरथस्याऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ UTR-2 ॥३०३॥ १ अनशनम् ॥२ इन्द्रः ॥३ अग्नेः ॥ ४ इन्द्राणी ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy