SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३०२॥ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४०८-४२० महासत्त्व-ममुं मेरुमिव स्थिरम् ॥ शक्ताश्चालयितुं नैव, सेन्द्रा अपि सुरासुराः ॥ तन्महिष्यौ सुरूपाति-रूपे तां तस्य वर्णनाम् ॥ असहिष्णू तदा तत्रा-ऽऽगातां तत्क्षोभहेतवे ॥४०९॥ कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः अनुकूलोपसर्गास्ता, इति प्रारेभिरे ततः ॥४१०॥ कटाक्षविशिखैः काचि-दक्षा लक्षीचकार तम् ॥ काऽपि भूविभ्रमान् सुभुर्विदधे पिदधे त्रपाम् ॥४११॥ पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नतौ ॥ कापि प्राकाशयकेश-पाशोबन्धनकैतवात् ॥४१२॥ त्रिवलीललितं मध्यं, सुमध्या काप्यदर्शयत् ॥ कापि वापीसनाभिं च, नाभि प्राकटयन्मुहुः ॥४१३॥ अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ॥४१४॥ हले! ऽलिना किं दष्टाह-मिहेति व्यपदेशतः ॥ उत्क्षिप्य कापि संव्यान-मूर्वोर्मूलमदीदृशत् ॥४१५॥ शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् ॥ काचिज्जगौ च गीतानि, विकाराङ्कुरवारिदान् ॥ ४१६ ॥ कथामकथयत् कापि, प्रिययोगवियोगयोः॥ स्वानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥४१७॥ देहि प्रियं वचः सौम्यदृष्ट्या वीक्षस्व नः प्रभो! कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ॥४१८॥ क्षोभायेति कृतास्ताभिः कुचेष्टा निखिलां निशाम् ॥ प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥४१९॥ मेरौ वात्या इवोर्वीशे, मोघास्ता विकृताः स्त्रियः ॥ ततः संहृत्य ते देव्यौ, नत्वा तं दिवमीयतुः ॥४२०॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः॥ UTR-2 ॥३०२॥ १शातकुम्भकुम्भौ स्वर्णघटौ ॥२ सुष्ठ मध्यं कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ।। ३ संव्यानं वस्त्रमुत्क्षिप्य ऊर्वोर्जयोर्मूलमदीदृशत् ।।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy