SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३०६॥३ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४६९-४७५ | पुर्योगा-द्यौवनं भूषयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत्! ॥४६१॥ पित्रोराज्ञेत्युपायंस्त, जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं-मन्यास्तादृग्धवाप्तितः ॥४६२॥ यातेष्वब्दसहसेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्तिं, निजं कार्यमसाधयत् ॥४६३॥ जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं ह्येव-मेवापैति निकाचितम् ॥४६४॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ, स्वप्ने चक्रं प्रदर्शयन् ॥४६५॥ पृष्टस्तयाऽथ स्वप्नार्थं, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥४६६॥ पूर्णे च समये पुत्रं, सुषुवे सा सुलक्षणम् ॥ स्वामिस्वप्नानुसारात्तं, चक्रे चक्रायुधाभिधम् ॥४६७॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ बह्वीपतिपुत्रीश्च, पर्यणैषीत् स्वयंवराः ॥४६७॥ नृपत्वेऽपि सहसेषु, शरदां पञ्चविंशतौ ॥ गतेषु शस्त्रशालायां, चक्रं प्रादुरभूत् प्रभोः ॥४६९॥ चक्रपूजां कारयित्वा, ततस्तदनुगो विभुः ॥ लीलया साधयामास, षटखण्डमपि भारतम् ॥४७०॥ द्वात्रिंशता सहसैर्भू-भुजां सेवितपत्कजः ॥ कृतारिशान्तिः श्रीशान्ति-हस्तिनापुरमाययौ ॥४७१॥ ततो देवैर्नृदेवैश्च, स्वामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥४७२॥ अथान्तःपुरकान्ताव-च्चक्रवर्त्तिश्रियं प्रभुः ॥ भुञ्जानो व्यत्यगादब्दसहसान्यञ्चविंशतिम् ॥४७३॥ तीर्थं प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान-माब्दिकं जगदीश्वरः ॥४७४॥ राज्ये चक्रायुधं न्यस्य, सर्वार्था शिबिकां श्रितः॥ सुरासुरनराधीश-कृतनिष्क्रमणोत्सवः ॥४७५॥ UTR-2 ॥३०६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy