SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२७८॥ * अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ६८-८१ श्रीषेणनृपजीवोऽथ, प्रथमस्वर्गतश्च्युतः ॥ मुक्ता शुक्ताविव ज्योति-र्मालाकुक्षाववातरत् ॥६८॥ स्वप्ने तदा च सादित्यं, ददर्शामिततेजसम् ॥ क्रमाच्च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥६९॥ स्वप्नानुसारतस्तस्या-ऽमिततेजा इति स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥७०॥ भामाजीवश्च्युतः स्वर्गा-दर्ककीर्तिमहीपतेः ॥ सुताराह्वा | सुता ज्योति-र्मालागर्भोद्भवाभवत् ॥७१॥ च्युत्वाभिनन्दिताजीव-स्त्रिपृष्ठस्य हरेरभूत् ॥ स्वयंप्रभाकुक्षिजन्मा, सुतः श्रीविजयाह्वयः ॥७२॥ शिखिनंदिताजीवस्तु, च्युत्वा ज्योति:प्रभाभिधा ॥ स्वयंप्रभाकुक्षिभवा, त्रिपृष्ठस्य सुताऽभवत् ॥७३॥ कपिलः स तु संसारे, भ्रान्त्वा विद्याधराधिपः ॥ पुर्यां चमरचञ्चाया-मजन्यशनिघोषराट् ॥७४॥ सुतारामर्ककीर्तिः श्री-विजयेनोदवाहयत् ॥ ज्योतिःप्रभां त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ॥७५॥ अथान्यदाभिनन्दन-जगन्नंदनसंज्ञयोः ॥ चारणवतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥७६॥ अर्ककीर्तिः निजे राज्ये, निधायामिततेजसम् ॥ मुक्तेः सरलमध्वानं, प्रव्रज्यामाददे मुदा ७७॥ [युग्मम् ] ततो विद्याधराधीश-मौलिलालितशासनः ॥ राज्यं तत्पालयामासा-ऽमिततेजा महाभुजः ॥७॥ ___ इतश्च मरणे विष्णो-स्त्रिपृष्ठस्य विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रावाजीदचलो बलः ॥७९॥ अथान्यदा सुताराश्रीविजयौ द्रष्टुमुत्सुकः ॥ जगाम पोतनपुरे-ऽमिततेजा महीपतिः ॥८॥ उत्तम्भितध्वजं तच्च, पुरमानन्दमेदुरम् ॥ विशेषाच्च नृपकुलं, वीक्ष्य हृष्टं विसिष्मिये ॥८१॥ व्योमोत्तीर्णं तं च वीक्ष्यो-दस्थात् श्रीविजयो मुदा ॥ UTR-2 ॥२७८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy