SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२७७॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ५३-६७ भुवनाद्भुतम् ॥ यदर्थमेतौ युध्येते, कुमारौ मारसुन्दरौ ॥५३॥ महिम्नाऽमुष्य तपस-स्तन्ममाप्यन्यजन्मनि ॥ भूयात्सौभाग्यमीदृक्षं, निदानमिति सा व्यधात् ॥५४॥ प्रान्ते चानशनं कृत्वा, सौधर्मे चाभवत्सुरी ॥ विमाता या पुनस्तस्याः, कनकश्रीरभूत्तदा ॥५५॥ सा तु मृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे ॥ दानादिपुण्यं त्वमभूः खेचरो मणिकुण्डली ॥५६॥ क्रमाद्विपद्य कनक-लतापद्मलते तु ते ॥ भवं भ्रांत्वा प्राग्भवे च, विधाय विविधं शुभम् ॥५७॥ द्वीपस्यास्यैव भरते, पुरे रत्नपुराह्वये ॥ इन्दुषेणबिन्दुषेणौ, जातौ श्रीषेणराट्सुतौ ॥५८॥ [युग्मम् ] पद्माजीवो दिवश्च्युत्वा, तत्रैव गणिकाऽभवत् ॥ इन्दुषेणबिन्दुषेणौ, युध्येते तत्कृतेऽधुना ! ५९॥ श्रुत्वेति प्राग्भवान् सोऽहं, युवां युद्धान्निषेधितुम् ॥ इहागां तद्विबुध्येथां, मा युध्येथां स्वसुः कृते ॥६०॥ माताहं युवयोः पूर्वभवे वेश्या त्वसौ स्वसा ॥ तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृव्रतम् ॥६१॥ ततस्तौ साधु साध्वावां, बोधिताविति वादिनौ ॥ सहसैर्भूमिनाथानां, चतुर्भिः परिवारितौ ॥६२॥ गुरोर्धर्मरुचेः पार्श्वे, दीक्षामादाय धीधनौ ॥ तप्त्वा चिरं तपो घोर-मगातां परमं पदम् ॥६३॥ [युग्मम् ] अथ श्रीषणजीवाद्या-श्चत्वारस्तेऽपि युग्मिनः ॥ आयुः प्रपूर्य सौधर्म-स्वर्गमीयुः सुखास्पदम् ॥६४॥ इतश्चात्रैव भरते-ऽभवद्वैताढ्यभूधरे ॥ श्रीरथनूपुरचक्र-वालाढे पुरमुत्तमम् ॥६५॥ तत्रार्ककीर्ति मासीत्, खेचरेन्द्रो महाबलः ॥ ज्योतिर्माला च तस्याऽभू-द्राज्ञीन्दोरिव रोहिणी ॥६६॥ स्वसा स्वयंप्रभा तस्या-ऽभवत्तां चादिमो हरिः ॥ त्रिपृष्ठः पोतनाधीशः, परिणिन्येऽचलानुजः ॥७॥ UTR-2 २७७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy