SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥१३२॥ मूलम्- कुसं च जूवं तणकट्टमग्गिं, सायं च पायं उदयं फसंता । पाणाई भूआई विहेडयंता, भुज्जोवि मंदा पकरेह पावं ॥ ३९ ॥ व्याख्या-कुशं च दर्भ, यूपं यज्ञस्तम्भं, तृणं च वीरणादि, काष्ठं च इन्धनादि, तृणकाष्ठं । अग्निं वह्नि, सर्वत्र प्रतिगृह्णन्त इति शेषः । सायं सन्ध्यायां चशब्दो भिन्नक्रमस्ततः 'पायं ति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आचमनादिषु परामृशन्तः 'पाणाई ति' प्राणिनो द्वीन्द्रियादीनुदकादौ भूतान् तरून् पृथिव्याधुपलक्षणञ्चैतत् विहेठमाना: विविधं बाधमाना: भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षेण उपचिनुथ पापमशुभकर्म । अयं भावः - कुशला हि कर्ममलविगमात्मिकां तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमते यागस्नाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गणं सुदृष्ट विदो वदेयुः? आह च वाचकमुख्यः-"शौचमाध्यात्मिकं त्यक्त्वा भावशुद्ध्यात्मकं शुभम् ॥ जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥१॥" | इति सूत्रार्थः ॥ ३९ ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षः - मूलम्- कहं चरे भिक्खु वयं जयामो, पावाई कम्माइं पणोल्लयामो। अक्खाहि णो संजय जक्खपूइआ, कहं सुइट्ठ कुसला वयंति ॥ ४० ॥ UTR-2 ॥१३२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy