________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१३१ ॥
तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोऽन्यः किलैवं दानं दातुं शक्तः ? इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच्च प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुःमूलम् -- सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेसु कोई।
सोवागपुत्तं हरिएससाहुं , जस्सेरिसा इड्डि महाणुभागा ॥ ३७ ॥ व्याख्या-'सक्खं खु त्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव दृश्यते जातिविशेषो जातिमाहात्म्यरूपः कोऽपि स्वल्पोपि । कुतः ? इत्याह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्येदृशी दृश्यमानरूपा ऋद्धिदेवसान्निध्यलक्षणा संपन्महानुभागा सातिशयमाहात्म्या । जातिविशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७ ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह
मूलम्- किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह ।
जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिटुं कुसला वयंति ॥ ३८ ॥ व्याख्या-किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः! ज्योतिरग्निस्तं समारभमाणाः प्रस्तावाद्यागं कुर्वन्त इत्यर्थः, उदकेन जलेन शोधिं विशुद्धिं 'बहिअ त्ति' बाह्यां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते ? इत्याहयद्यूयं मार्गयथ बाह्यां स्नानादिबाह्यहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्ठ प्रेक्षितं कुशलास्तत्त्वविदो वदन्तीतिसूत्रार्थ: ॥ ३८ ॥ एतदेव स्पष्टयति --
UTR-2
॥१३१॥